मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १७, ऋक् ६

संहिता

अ॒भि विप्रा॑ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रवः॑ ।
दधा॑ना॒श्चक्ष॑सि प्रि॒यम् ॥

पदपाठः

अ॒भि । विप्राः॑ । अ॒नू॒ष॒त॒ । मू॒र्धन् । य॒ज्ञस्य॑ । का॒रवः॑ ।
दधा॑नाः । चक्ष॑सि । प्रि॒यम् ॥

सायणभाष्यम्

हे सोम त्वां अभ्यनूपत अभिष्टुवन्ति विप्रामेधाविनः स्तोतारः । कुत्र यज्ञस्य मूर्धन् मूर्धनि शिरोवदुत्तमे अभिषवदिवसइत्यर्थः । कीदृशास्ते कारवः कर्तारः परिचर्यायाः यागानुष्ठातारोवा । चक्षसि द्रष्टरि सोमे प्रियंदधाना अभ्यनूषतेति समन्वयः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः