अवा॑वशन्त धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि ।
सू॒नोर्व॒त्सस्य॑ मा॒तरः॑ ॥
अवा॑वशन्त । धी॒तयः॑ । वृ॒ष॒भस्य॑ । अधि॑ । रेत॑सि ।
सू॒नोः । व॒त्सस्य॑ । मा॒तरः॑ ॥
धीतयो धीयमानाः सोमाख्येन वत्सेन पीयमाना वसतीवर्यः । क्तिन् व्यत्ययेनान्तोदात्तः । अधिरेतसि स्वकीयेसारे वृषभस्य वर्षकस्य सोमस्य सोममित्यर्थः अवावशन्त पुनः कामयन्ते सोममाप्याययितुं कामयन्ते इत्यर्थः । तदेवाह-सूनो स्वपुत्रस्थानीयस्य वत्सस्य सोमस्य मातरोनिर्मात्र्यः प्रवृद्धिकामा मातृस्थानीयाः अवावशन्तेतिसमन्वयः ॥ ४ ॥