मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २०, ऋक् ४

संहिता

अ॒भ्य॑र्ष बृ॒हद्यशो॑ म॒घव॑द्भ्यो ध्रु॒वं र॒यिम् ।
इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

पदपाठः

अ॒भि । अ॒र्ष॒ । बृ॒हत् । यशः॑ । म॒घव॑त्ऽभ्यः । ध्रु॒वम् । र॒यिम् ।
इष॑म् । स्तो॒तृऽभ्यः । आ । भ॒र॒ ॥

सायणभाष्यम्

हे सोम बृहद्यशो महतीं कीर्तिं अभ्यर्ष अभिगमय । मघवद्भ्योस्मभ्यं ध्रुवं रयिं धनंचाभ्यर्ष । किंच इषमन्नं स्तोतृभ्योस्मभ्यमाभराहर ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०