मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २२, ऋक् ४

संहिता

ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः ।
इय॑क्षन्तः प॒थो रजः॑ ॥

पदपाठः

ए॒ते । मृ॒ष्टाः । अम॑र्त्याः । स॒सृ॒ऽवांसः॑ । न । श॒श्र॒मुः॒ ।
इय॑क्षन्तः । प॒थः । रजः॑ ॥

सायणभाष्यम्

एते सोमाः मृष्टाः दशापवित्रेण शोधिताः अमर्त्या अमरणधर्माणः ससृवांसो हविर्धानात्सरन्तः पथोमार्गान् रजोलोकांश्च इयक्षन्तो गन्तुमिच्छन्तो न शश्रमुः न शाम्यन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२