मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २२, ऋक् ७

संहिता

त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः ।
त॒तं तन्तु॑मचिक्रदः ॥

पदपाठः

त्वम् । सो॒म॒ । प॒णिऽभ्यः॑ । आ । वसु॑ । गव्या॑नि । धा॒र॒यः॒ ।
त॒तम् । तन्तु॑म् । अ॒चि॒क्र॒दः॒ ॥

सायणभाष्यम्

हे सोम वं पणिभ्योसुरेभ्योलुब्धकेभ्योवा सकाशात् गव्यानि गोर्हितानि वसु वसूनि गोयूथानि वसूनि चेतिवा आहृत्य धारयोधारयसि । तथा तन्तुं यज्ञं प्रति ततं विस्तृतं यथाभवति तथा अचिक्रदः शब्दमकार्षीः ॥ ७ ॥

सोमाअसग्रमिति सप्तर्चं त्रयोविंशं सूक्तम् । ऋष्याद्याः पुर्ववत् । सोमाअसृग्रमित्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२