मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २३, ऋक् २

संहिता

अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी॑यो अक्रमुः ।
रु॒चे ज॑नन्त॒ सूर्य॑म् ॥

पदपाठः

अनु॑ । प्र॒त्नासः॑ । आ॒यवः॑ । प॒दम् । नवी॑यः । अ॒क्र॒मुः॒ ।
रु॒चे । ज॒न॒न्त॒ । सूर्य॑म् ॥

सायणभाष्यम्

प्रत्नासः पुराणाः केचिदाशवः शीघ्रगमनाः अश्वाः नवीयो नवतरं पदमन्वक्रमः अनुक्रमन्ते । रूपकव्याहारेण सोमाःस्तूयन्ते रुचे दीप्त्यै सूर्यं जनन्त कुर्वन्ति दीप्तं कुर्वन्तीत्यर्थः । सोमाप्यायनेनहि चन्द्रोरोचते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३