मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २३, ऋक् ४

संहिता

अ॒भि सोमा॑स आ॒यव॒ः पव॑न्ते॒ मद्यं॒ मद॑म् ।
अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥

पदपाठः

अ॒भि । सोमा॑सः । आ॒यवः॑ । पव॑न्ते । मद्य॑म् । मद॑म् ।
अ॒भि । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥

सायणभाष्यम्

आयवोगन्तारः सोमासः सोमाः मद्यं मदकरं मदं रसं अभिपवन्ते क्षरन्ति । तथा मधुश्चुतं मधुस्राविणं कोशम् । रसाधारेण कोशशब्देन तत्रामिश्रितो रसोलक्ष्यते । तं अभिपचन्त इतिशेषः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३