मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २३, ऋक् ७

संहिता

अ॒स्य पी॒त्वा मदा॑ना॒मिन्द्रो॑ वृ॒त्राण्य॑प्र॒ति ।
ज॒घान॑ ज॒घन॑च्च॒ नु ॥

पदपाठः

अ॒स्य । पी॒त्वा । मदा॑नाम् । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति ।
ज॒घान॑ । ज॒घन॑त् । च॒ । नु ॥

सायणभाष्यम्

मदानां मदकराणां मध्ये अतिशयेन मदकरं अस्य अमुं सोमं पीत्वा वृत्राणि शत्रून् प्रतिगतः सन् इन्द्रोजघान हतवान् नु क्षिप्रं जघनच्च हन्तुंचेदा- नीमिति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३