मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २४, ऋक् ५

संहिता

इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि ।
अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥

पदपाठः

इन्दो॒ इति॑ । यत् । अद्रि॑ऽभिः । सु॒तः । प॒वित्र॑म् । प॒रि॒ऽधाव॑सि ।
अर॑म् । इन्द्र॑स्य । धाम्ने॑ ॥

सायणभाष्यम्

हे इन्दो त्वं यद्यदा अद्रिभिर्ग्रावभिः सुतोभिषुतः पवित्रं दशापवित्रं परिधावसि परिगच्छसि । तदा इन्द्रस्य धाम्ने स्थानायाधारकाय उदराय वा अरं पर्याप्तोभवसि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४