मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २४, ऋक् ७

संहिता

शुचि॑ः पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्व॑ः ।
दे॒वा॒वीर॑घशंस॒हा ॥

पदपाठः

शुचिः॑ । पा॒व॒कः । उ॒च्य॒ते॒ । सोमः॑ । सु॒तस्य॑ । मध्वः॑ ।
दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥

सायणभाष्यम्

सुतस्याभिषुतस्य मध्वः मदकरस्य वल्यात्मकः सोमोरसरूपः शुचिः स्वयं शुद्धः पावकः शोधकश्चोच्यते । तथा देवावीः देवानामविता तर्पयिता अघशंसहा अघं पापं शंसंतीत्यघशंसा असुराः तेषां हन्तेति चोच्यते ॥ ७ ॥

द्वितीयेनुवाके षट्त्रिंशत्सूक्तानि तत्र पवस्वेति षळृचं प्रथमं सूक्तं दृह्ळच्युतनाम्नोगस्त्यपुत्रस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तंच-पवस्वषट् दृह्ळच्युतआगस्त्यइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४