मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २५, ऋक् ५

संहिता

अ॒रु॒षो ज॒नय॒न्गिर॒ः सोमः॑ पवत आयु॒षक् ।
इन्द्रं॒ गच्छ॑न्क॒विक्र॑तुः ॥

पदपाठः

अ॒रु॒षः । ज॒नय॑न् । गिरः॑ । सोमः॑ । प॒व॒ते॒ । आ॒यु॒षक् ।
इन्द्र॑म् । गच्छ॑न् । क॒विऽक्र॑तुः ॥

सायणभाष्यम्

अरुष आरोचमानः सोमोगिरः शब्दान् जनयन् पवते क्षरति । किंकुर्वन् आनुषक् अनुषक्तमिन्द्रं गच्छन् व्याप्नुवन् कविक्रतुः क्रान्तप्रज्ञः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५