मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २६, ऋक् १

संहिता

तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ ।
विप्रा॑सो॒ अण्व्या॑ धि॒या ॥

पदपाठः

तम् । अ॒मृ॒क्ष॒न्त॒ । वा॒जिन॑म् । उ॒पऽस्थे॑ । अदि॑तेः । अधि॑ ।
विप्रा॑सः । अण्व्या॑ । धि॒या ॥

सायणभाष्यम्

तं वाजिनमश्वं अश्ववदाशुं व्याप्तमित्यर्थः अदितेः पृथिव्याउपस्थे उत्संगे अधीति सप्तम्यर्थानुवादी । अमृक्षन्त शोधितवन्तः । के विप्रासो मेधाविनोध्वर्य्वादयः । केन साधनेन अण्व्या अंगुल्या धिया प्रज्ञया स्तुत्या वा अमृक्षन्त अथवा अण्व्या सूक्ष्मया धिया अंगुल्येति विशेष्य- विशेषणभावः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६