मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २८, ऋक् २

संहिता

ए॒ष प॒वित्रे॑ अक्षर॒त्सोमो॑ दे॒वेभ्य॑ः सु॒तः ।
विश्वा॒ धामा॑न्यावि॒शन् ॥

पदपाठः

ए॒षः । प॒वित्रे॑ । अ॒क्ष॒र॒त् । सोमः॑ । दे॒वेभ्यः॑ । सु॒तः ।
विश्वा॑ । धामा॑नि । आ॒ऽवि॒शन् ॥

सायणभाष्यम्

एषसोमो देवेभ्यो देवार्थं सुतोभिषुतःसन् पवित्रेअक्षरत् स्रवति । विश्वा सर्वाणि धामानि देवशरीराणि आविशन् प्रविशन् प्रवेष्टुमित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८