मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २९, ऋक् ५

संहिता

रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित् ।
नि॒दो यत्र॑ मुमु॒च्महे॑ ॥

पदपाठः

रक्ष॑ । सु । नः॒ । अर॑रुषः । स्व॒नात् । स॒म॒स्य॒ । कस्य॑ । चि॒त् ।
नि॒दः । यत्र॑ । मु॒मु॒च्महे॑ ॥

सायणभाष्यम्

हे सोम नोस्मान् सु सुष्ठु रक्षा पालय । कस्मात् अररुषः अदातुः स्वनात् शब्दात् निंदारूपात् किमेकस्यादानशीलस्य न समस्य सर्वस्य योस्ति तस्य सर्वस्य कस्यचित् कंचन अमुंचन्नित्यर्थः । नकेवलमदातुः स्वनात् किंतर्हि कस्यचित् कस्यापि निदो निंदकात् रक्ष । यत्र मुमुच्म्हे यस्मिन् रक्षणेसति वयं मुक्ताभवेम तेन रक्षणेन रक्षयेति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९