मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३०, ऋक् ५

संहिता

अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
इन्द॒विन्द्रा॑य पी॒तये॑ ॥

पदपाठः

अ॒प्ऽसु । त्वा॒ । मधु॑मत्ऽतमम् । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।
इन्दो॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥

सायणभाष्यम्

हे इन्दो सोम अप्सु वसतीवरीषूदकेषु मधुमत्तमं अतिशयेन मधुमन्तं हरिं हरितवर्णं त्वा त्वां अद्रिभिरभिषवग्रावभिर्हिन्वंति प्रेरयन्ति । किमर्थं इन्द्रायेन्द्रस्य पीतये पानाय ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०