मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३२, ऋक् ५

संहिता

अ॒भि गावो॑ अनूषत॒ योषा॑ जा॒रमि॑व प्रि॒यम् ।
अग॑न्ना॒जिं यथा॑ हि॒तम् ॥

पदपाठः

अ॒भि । गावः॑ । अ॒नू॒ष॒त॒ । योषा॑ । जा॒रम्ऽइ॑व । प्रि॒यम् ।
अग॑न् । आ॒जिम् । यथा॑ । हि॒तम् ॥

सायणभाष्यम्

हे सोम त्वां गावः शब्दाः अभ्यनूषत अभिष्टुवन्ति । योषा प्रियं जारमिव सा यथा तं स्तौति तद्वत् । ससोमः आजिं गंतव्यं हितं मित्रमिव तं यथा अन्यः अगन् स्वहिताय गच्छति तद्वत् । अथवा हितं धनप्रापकत्वेन हितकरं वा आजिं शूरइव अयमागच्छति पात्रं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२