अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च ।
स॒निं मे॒धामु॒त श्रवः॑ ॥
अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमत् । यशः॑ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ ।
स॒निम् । मे॒धाम् । उ॒त । श्रवः॑ ॥
हे सोम अस्ये अस्मभ्यं द्युमत् दीप्तिगत् यशोन्नं धेहि देहि । कीदृशेभ्योस्मभ्यं मघवद्भ्यश्च हविर्लक्षणान्नवद्भ्यश्च मह्यंच स्तुतिकर्त्रेच । अथवा मह्यमस्मभ्यमित्यर्थः । अस्मे मघवद्भ्यश्च मह्यंचेति तेषामेवाशंसनाभेदादुभयत्र चशब्दोयुक्तं । किंच सनिं धनं मेधां प्रज्ञां उतापिच श्रवः कीर्तिं च धेहि ॥ ६ ॥
प्रसोमासइति षळृचं नवमं सूक्तं त्रितस्यार्षं गायत्रं पवमानसोमदेवताकं । प्रसोमासस्रितइत्यनुक्रान्तं । गतोविनियोगः ।