मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३३, ऋक् २

संहिता

अ॒भि द्रोणा॑नि ब॒भ्रवः॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।
वाजं॒ गोम॑न्तमक्षरन् ॥

पदपाठः

अ॒भि । द्रोणा॑नि । ब॒भ्रवः॑ । शु॒क्राः । ऋ॒तस्य॑ । धार॑या ।
वाज॑म् । गोऽम॑न्तम् । अ॒क्ष॒र॒न् ॥

सायणभाष्यम्

अभि क्षरन्तीतिशेषः । उपसर्गश्रुतेरुचितक्रियाध्याहारः । प्रति द्रोणानि द्रोणकलशाम् यद्यपि द्रोणकलशएकएव तथापि तत्प्राधान्यादितरेपिपात्रा द्रोणाइत्युच्यन्ते अथवैकस्मिन्नेव पूजार्थं बहुवचनम् । के बभ्रवो बभ्रुवर्णाः सोमाः शुक्रादीप्ताः । केन प्रकारेण ऋतस्यामृतस्य धारया धाराकारेण । किंच वाजमन्नं गोमन्तं बहुगोयुक्तं अक्षरन् क्षरन्ति अस्माकं अथवैकमेववाक्यं उक्तविधाः सोमाः द्रोणान् प्रत्यक्षरन् धारया किंकुर्वन्तो गोमन्तं वाजं प्रयच्छन्तइत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३