मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३३, ऋक् ५

संहिता

अ॒भि ब्रह्मी॑रनूषत य॒ह्वीरृ॒तस्य॑ मा॒तरः॑ ।
म॒र्मृ॒ज्यन्ते॑ दि॒वः शिशु॑म् ॥

पदपाठः

अ॒भि । ब्रह्मीः॑ । अ॒नू॒ष॒त॒ । य॒ह्वीः । ऋ॒तस्य॑ । मा॒तरः॑ ।
म॒र्मृ॒ज्यन्ते॑ । दि॒वः । शिशु॑म् ॥

सायणभाष्यम्

ब्रह्मीब्राह्मणप्रॆरिताः यह्वीर्महत्यः यह्व इतिमहन्नाम ऋतस्य यज्ञस्य मातरॊनिर्मात्र्यः स्तुतयॊभ्यनूषत स्तुवन्ति । किं दिवॊद्युतायाः शिशुं शिशुस्थानीयं सॊमं तमॆव मर्मृज्यन्तॆ मृजन्ति । त्रुतीयस्यामितॊदिवि सॊमआसीदित्यादिशृतॆः । द्युशिशुत्वं तस्य ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३