मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३४, ऋक् ५

संहिता

अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः ।
चारु॑ प्रि॒यत॑मं ह॒विः ॥

पदपाठः

अ॒भि । ई॒म् । ऋ॒तस्य॑ । वि॒ष्टप॑म् । दु॒ह॒ते । पृश्नि॑ऽमातरः ।
चारु॑ । प्रि॒यऽत॑मम् । ह॒विः ॥

सायणभाष्यम्

ईमेनं सोमं ऋतस्य विष्टपं स्थानं यज्ञाश्रयमित्यर्थः तादृशं पृश्निमातरोमरुतोभिदुहते । किंप्रियतममिन्द्रादीनां हविर्होमसाधनं चारु रमणीयं सोमं मरुत्प्रेरितवृष्ट्या सोमवृद्धेस्तद्दोग्धृत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४