मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३६, ऋक् १

संहिता

अस॑र्जि॒ रथ्यो॑ यथा प॒वित्रे॑ च॒म्वो॑ः सु॒तः ।
कार्ष्म॑न्वा॒जी न्य॑क्रमीत् ॥

पदपाठः

अस॑र्जि । रथ्यः॑ । य॒था॒ । प॒वित्रे॑ । च॒म्वोः॑ । सु॒तः ।
कार्ष्म॑न् । वा॒जी । नि । अ॒क्र॒मी॒त् ॥

सायणभाष्यम्

रथ्योयथा रथसंबन्धीअश्वइव सयथा विसृज्यते तद्वत् मम्वेरधिषवणफलकयोः सुतोभिषुतः सोमः असर्जि सृष्टोभूत् पवित्रे । तथा भूतोवाजी वेजनवान् सोमख्योश्वः कार्ष्मन् कार्ष्मयुद्धं इतरेतरघर्षणात् अत्र देवानामाकर्षणवति यज्ञाख्ये संग्रामे न्यक्रमीत् नितरां क्रामयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६