मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३९, ऋक् ४

संहिता

अ॒यं स यो दि॒वस्परि॑ रघु॒यामा॑ प॒वित्र॒ आ ।
सिन्धो॑रू॒र्मा व्यक्ष॑रत् ॥

पदपाठः

अ॒यम् । सः । यः । दि॒वः । परि॑ । र॒घु॒ऽयामा॑ । प॒वित्रे॑ । आ ।
सिन्धोः॑ । ऊ॒र्मा । वि । अक्ष॑रत् ॥

सायणभाष्यम्

अयं ससोमः पवित्रे आसिच्यमानइतिशेषः । सिंधोर्जलस्राविण्याऊर्मा ऊर्मौ संघाते व्यक्षरत् विविधं क्षरति । सइत्युक्तं कइत्याह-योदिवस्परि द्युलोकस्योपरि रघुयामा लघुगमनः देवप्राप्तौ सोयमिति संबन्धः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९