मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३९, ऋक् ५

संहिता

आ॒विवा॑सन्परा॒वतो॒ अथो॑ अर्वा॒वतः॑ सु॒तः ।
इन्द्रा॑य सिच्यते॒ मधु॑ ॥

पदपाठः

आ॒ऽविवा॑सन् । प॒रा॒ऽवतः॑ । अथो॒ इति॑ । अ॒र्वा॒ऽवतः॑ । सु॒तः ।
इन्द्रा॑य । सि॒च्य॒ते॒ । मधु॑ ॥

सायणभाष्यम्

सुतोभिषुतःसोमः परावतः दूरनामैतत् दूरस्थानात् अथो अपिचार्वावतोन्तिकस्थांश्च देवानाविवासन् रसेन परिचरणायेत्यर्थः इन्द्रायेन्द्रार्थं मधु मधुसदृशः सोमः सिच्यते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९