मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३९, ऋक् ६

संहिता

स॒मी॒ची॒ना अ॑नूषत॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
योना॑वृ॒तस्य॑ सीदत ॥

पदपाठः

स॒मी॒ची॒नाः । अ॒नू॒ष॒त॒ । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।
योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒ ॥

सायणभाष्यम्

समीचीनाः सम्यगंचिताः संगताःस्तोतारोनूषत स्तुवन्ति । किंच सोमं हरिं हरितवर्णं हिन्वन्ति प्रेरयन्ति गमयन्ति अद्रिभिर्ग्रावभिः । यस्मादेवं तस्मात् ऋतस्य यज्ञस्य योनौ स्थाने सीदत निषण्णाभवत हे देवाः ॥ ६ ॥

पुनानइति षळृचं षोडशं सूक्तं ऋष्याद्याः पूर्ववत् । पुनानइत्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९