मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४४, ऋक् ३

संहिता

अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए॑ति प॒वित्र॒ आ ।
सोमो॑ याति॒ विच॑र्षणिः ॥

पदपाठः

अ॒यम् । दे॒वेषु॑ । जागृ॑विः । सु॒तः । ए॒ति॒ । प॒वित्रे॑ । आ ।
सोमः॑ । या॒ति॒ । विऽच॑र्षणिः ॥

सायणभाष्यम्

जागृविर्जागरणशीलोयं सोमोदेवेषु देवार्थं सुतोभिषुत आएति समन्ताद्गच्छति । अपि च विचर्षणिः विद्रष्टा सोमः पवित्रे याति पावनाय गच्छति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः