मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४४, ऋक् ६

संहिता

स नो॑ अ॒द्य वसु॑त्तये क्रतु॒विद्गा॑तु॒वित्त॑मः ।
वाजं॑ जेषि॒ श्रवो॑ बृ॒हत् ॥

पदपाठः

सः । नः॒ । अ॒द्य । वसु॑त्तये । क्र॒तु॒ऽवित् । गा॒तु॒वित्ऽत॑मः ।
वाज॑म् । जे॒षि॒ । श्रवः॑ । बृ॒हत् ॥

सायणभाष्यम्

हे सोम क्रतुवित् क्रतूनां कर्मणां लंभको गातुवित्पूण्यलोकानां अतिशयेन मार्गस्य ज्ञाता त्वं अद्यास्मिन्नहनि नोस्माकं वसुत्तये धनलाभाय बृहन्महत् श्रवोन्नं वाजं बलंच जेषि जय ॥ ६ ॥

सपवस्वेति षळृचं एकविंशं सूक्तं ऋष्याद्याः पूर्ववत् सपवस्वेत्यनुक्रान्तम् । गतोविनि- योगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः