मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४५, ऋक् ४

संहिता

अत्यू॑ प॒वित्र॑मक्रमीद्वा॒जी धुरं॒ न याम॑नि ।
इन्दु॑र्दे॒वेषु॑ पत्यते ॥

पदपाठः

अति॑ । ऊं॒ इति॑ । प॒वित्र॑म् । अ॒क्र॒मी॒त् । वा॒जी । धुर॑म् । न । याम॑नि ।
इन्दुः॑ । दे॒वेषु॑ । प॒त्य॒ते॒ ॥

सायणभाष्यम्

इन्दुः सोमोवाज्यश्वोयामनि गमने धुरं न रथस्य धुरं यथा तथा पवित्रमत्यक्रमीदतिग च्छति । देवेषु देवानां मध्ये पत्यते गच्छति च ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः