मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४७, ऋक् १

संहिता

अ॒या सोमः॑ सुकृ॒त्यया॑ म॒हश्चि॑द॒भ्य॑वर्धत ।
म॒न्दा॒न उद्वृ॑षायते ॥

पदपाठः

अ॒या । सोमः॑ । सु॒ऽकृ॒त्यया॑ । म॒हः । चि॒त् । अ॒भि । अ॒व॒र्ध॒त॒ ।
म॒न्दा॒नः । उत् । वृ॒ष॒ऽय॒ते॒ ॥

सायणभाष्यम्

सोमः अया अनया सुकृत्यया शोभनया अभिषवादिलक्षणया क्रियया महश्चित् महतोदेवान् प्रत्यभ्यवर्धत् प्रवृद्धोभूत् मन्दानोमोदमानः उद्वृषायते वृषवदाचरति । यथा मोदमानोवृषभः शब्दं करोति तथाभिषववेलायामुपरवेषु शब्दंकरोतीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः