मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४८, ऋक् ३

संहिता

अत॑स्त्वा र॒यिम॒भि राजा॑नं सुक्रतो दि॒वः ।
सु॒प॒र्णो अ॑व्य॒थिर्भ॑रत् ॥

पदपाठः

अतः॑ । त्वा॒ । र॒यिम् । अ॒भि । राजा॑नम् । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दि॒वः ।
सु॒ऽप॒र्णः । अ॒व्य॒थिः । भ॒र॒त् ॥

सायणभाष्यम्

हे सुक्रतो शोभनकर्मन् पवमानसोम रयिमभि धनंप्रति राजानं त्वा त्वां अतोदिवोमुष्मा- त् द्युलोकात् अव्यथिर्व्यथारहितः सुपर्णः रयेनोभरदाहरत् । तथाचनिगमान्तरं—आदायश्ये- नोअभरत्सोममिति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः