मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४८, ऋक् ५

संहिता

अधा॑ हिन्वा॒न इ॑न्द्रि॒यं ज्यायो॑ महि॒त्वमा॑नशे ।
अ॒भि॒ष्टि॒कृद्विच॑र्षणिः ॥

पदपाठः

अध॑ । हि॒न्वा॒नः । इ॒न्द्रि॒यम् । ज्यायः॑ । म॒हि॒ऽत्वम् । आ॒न॒शे॒ ।
अ॒भि॒ष्टि॒ऽकृत् । विऽच॑र्षणिः ॥

सायणभाष्यम्

अधाथ विचर्षणिः कर्मणां विद्रष्टा अभिष्टिकृद्यजमानानामभीष्टस्य फलस्य कर्ता सोमः इन्द्रियः स्वकीयं बलं हिन्वानः प्रेरयन् ज्यायः प्रशस्यतरं महित्वं महत्त्वमानशे प्राप्नोति ॥ ५ ॥

पवस्वेति पंचर्चं पंचविंशं सूक्तं ऋष्याद्याः पूर्ववत् । पवस्वेत्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः