मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४९, ऋक् १

संहिता

पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ ।
अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ॥

पदपाठः

पव॑स्व । वृ॒ष्टिम् । आ । सु । नः॒ । अ॒पाम् । ऊ॒र्मिम् । दि॒वः । परि॑ ।
अ॒य॒क्ष्माः । बृ॒ह॒तीः । इषः॑ ॥

सायणभाष्यम्

हे सोम त्वं दिवोद्युलोकात् वृष्टिं नोस्माकमापवस्व समन्तात्कुरु । एतदेव दर्शयति—अपा मुदकानामूर्मिं तरंगं दिवः पर्यापवस्व । अपिचायक्ष्माः यक्ष्मरहितानि अनामयानि बृहतीर्महां ति इषोन्नानि आपवस्व ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः