मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४९, ऋक् ५

संहिता

पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जङ्घ॑नत् ।
प्र॒त्न॒वद्रो॒चय॒न्रुचः॑ ॥

पदपाठः

पव॑मानः । अ॒सि॒स्य॒द॒त् । रक्षां॑सि । अ॒प॒ऽजङ्घ॑नत् ।
प्र॒त्न॒ऽवत् । रो॒चय॑न् । रुचः॑ ॥

सायणभाष्यम्

रक्षांसि राक्षसानपजंघनदपघ्नन् रुचः आत्मीयादीप्तीः प्रत्नवत् पुराणवत् रोचयन् दीपयन् पवमानः सोमोसिस्यदत् स्यन्दते ॥ ५ ॥

उत्तइति पंचर्चं षड्विंशं सूक्तं आंगिरसस्योचथ्यस्यार्षं गायत्रं पवमानसोमदेवताकं तथा चानुक्रान्तं—उत्तेशुष्मासउचथ्यइति । उक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः