मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५०, ऋक् ३

संहिता

अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
पव॑मानं मधु॒श्चुत॑म् ॥

पदपाठः

अव्यः॑ । वारे॑ । परि॑ । प्रि॒यम् । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।
पव॑मानम् । म॒धु॒ऽश्चुत॑म् ॥

सायणभाष्यम्

प्रियं देवानां प्रीतिकरं हरिं हरितवर्णमद्रिभिः ग्रावभिरभिषुतं मधुश्चुतं मधुनोरसस्य च्यावयितारं पवमानं सोममव्योवेर्वारे वाले परिहिन्वन्ति ऋत्विजः परिप्रेरयन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः