मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५१, ऋक् १

संहिता

अध्व॑र्यो॒ अद्रि॑भिः सु॒तं सोमं॑ प॒वित्र॒ आ सृ॑ज ।
पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥

पदपाठः

अध्व॑र्यो॒ इति॑ । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । प॒वित्रे॑ । आ । सृ॒ज॒ ।
पु॒नी॒हि । इन्द्रा॑य । पात॑वे ॥

सायणभाष्यम्

हे अध्वर्यो अद्रिभिर्ग्रावभिः सुतमभिषुतं सोमं पवित्रे आसृज । एतदेव दर्शयति इन्द्रा- येन्द्रस्य पातवे पानाय पुनीहि पावय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः