मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५१, ऋक् ५

संहिता

अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥

पदपाठः

अ॒भि । अ॒र्ष॒ । वि॒ऽच॒क्ष॒ण॒ । प॒वित्र॑म् । धार॑या । सु॒तः ।
अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥

सायणभाष्यम्

हे विचक्षण सोम सुतोभिषुतस्त्वं पवित्रमभि प्रति धारयार्षगच्छ । उतापिचास्माकं वाजमन्नं श्रवः कीर्तिंचाभिरक्षेत्यर्थः ॥ ५ ॥

परिद्युक्षइति पंचर्चमष्टाविंशंसूक्तं ऋष्याद्याः पूर्ववत् । परिद्युक्षेत्यनुक्रान्तम् । उक्तोविनि- योगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः