अ॒स्य प्र॒त्नामनु॒ द्युतं॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः ।
पयः॑ सहस्र॒सामृषि॑म् ॥
अ॒स्य । प्र॒त्नाम् । अनु॑ । द्युत॑म् । शु॒क्रम् । दु॒दु॒ह्रे॒ । अह्र॑यः ।
पयः॑ । स॒ह॒स्र॒ऽसाम् । ऋषि॑म् ॥
अस्य सोमस्य प्रत्नां पुराणां द्युतं द्योतमानं तनुमनु शुक्रं दीप्तं सहस्रसां अभिलषितस्यापरि मितस्य कर्मफलस्य दातारं ऋषिं सरणशीलं पयः पातव्यं रसमह्रयः कवयोदुदुह्रे दुहन्ति ॥ १ ॥