मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५४, ऋक् २

संहिता

अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां॑सि धावति ।
स॒प्त प्र॒वत॒ आ दिव॑म् ॥

पदपाठः

अ॒यम् । सूर्यः॑ऽइव । उ॒प॒ऽदृक् । अ॒यम् । सरां॑सि । धा॒व॒ति॒ ।
स॒प्त । प्र॒ऽवतः॑ । आ । दिव॑म् ॥

सायणभाष्यम्

अयं सोमः सूर्यइव यथासूर्यः सर्वस्यलोकस्योपद्रष्टा तद्वत् कर्मणामुपदृगुपद्रष्टा अपि चायं सोमः सरांसि त्रिंशदुक्थपात्राणीति केचिद्वर्णयन्ति अपरेतु त्रिंशदहोरात्राणि सरांसीति तानि धावति गच्छति । तथाचयास्कः—तत्रैतद्याज्ञिकावेदयन्ते त्रिंशदुक्थपात्राणि माध्यन्दिने सवन एकदेवतानि तान्येतस्मिन्कालएकेनप्रतिधानेन पिबन्ति तान्यत्र सरांस्युच्यन्ते त्रिंशदपरपक्ष स्याहोरात्रास्त्रिंशत्पूर्वपक्षस्येतिनैरुक्ताइति । अपिचायं सोमोदिवमधिकृत्य सप्तप्रवतः सप्तन्दी रात्रिष्ठति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११