मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५४, ऋक् ३

संहिता

अ॒यं विश्वा॑नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ ।
सोमो॑ दे॒वो न सूर्य॑ः ॥

पदपाठः

अ॒यम् । विश्वा॑नि । ति॒ष्ठ॒ति॒ । पु॒ना॒नः । भुव॑ना । उ॒परि॑ ।
सोमः॑ । दि॒वः । न । सूर्यः॑ ॥

सायणभाष्यम्

पुनानाः पूयमानोयं सोमो विश्वानि सर्वाणि भुवना भुवनानि सर्वेषां भुवनानामुपरिति- ष्ठति । तत्रदृष्टान्तमाह—देवोन सूर्यः यथा सूर्योदेवः सर्वेषां भुवनानामुपरि तिष्ठति तद्वदयं सोमोपीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११