मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५६, ऋक् ३

संहिता

अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या॑नूषत ।
मृ॒ज्यसे॑ सोम सा॒तये॑ ॥

पदपाठः

अ॒भि । त्वा॒ । योष॑णः । दश॑ । जा॒रम् । न । क॒न्या॑ । अ॒नू॒ष॒त॒ ।
मृ॒ज्यसे॑ । सो॒म॒ । सा॒तये॑ ॥

सायणभाष्यम्

हे सोम त्वा त्वां याः दशसंख्याका योषणोंगुलयः कन्या पितृमतीकन्यका जारंन यथा प्रियमभिशब्दायते तद्वदभ्यनूषताभिशब्दायन्ते । ताभिः सातयेस्माकं धनस्य लाभाय मृज्यसे इन्द्रार्थं शोध्यसे ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३