मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५७, ऋक् २

संहिता

अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा॑णो अर्षति ।
हरि॑स्तुञ्जा॒न आयु॑धा ॥

पदपाठः

अ॒भि । प्रि॒याणि॑ । काव्या॑ । विश्वा॑ । चक्षा॑णः । अ॒र्ष॒ति॒ ।
हरिः॑ । तु॒ञ्जा॒नः । आयु॑धा ॥

सायणभाष्यम्

हरिर्हरितवर्णः सोमो विश्वा विश्वानि प्रियाणि देवानां प्रीतिकराणि काव्या काव्यानि कर्माणि चक्षाणः पश्यन् आयुधा स्वकीयान्यायुधानि तुंजानो राक्षसान्प्रति प्रेरयंश्चाभ्यर्षति यागं प्रति गच्छति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४