मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् १

संहिता

अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा ।
अ॒वाह॑न्नव॒तीर्नव॑ ॥

पदपाठः

अ॒या । वी॒ती । परि॑ । स्र॒व॒ । यः । ते॒ । इ॒न्दो॒ इति॑ । मदे॑षु । आ ।
अ॒व॒ऽअह॑न् । न॒व॒तीः । नव॑ ॥

सायणभाष्यम्

हे इन्दो सोम अयानेन रसेन वीती वीत्यै इन्द्रस्य भक्षणाय परिस्रव परिक्षर । कीदृशेनर- सेनेत्यतआह ते तव योरसोमदेषु संग्रामेषु नवतीर्नवेति नवनवतिसंख्याकाश्च शत्रुपुरीरवा- हन् जघान अमुं सोमरसं पीत्वा मत्तः सन्निन्द्र उक्तलक्षणाः शत्रुपुरीर्जघानेतिकृत्वा रसोजघा- नेत्युपचारः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८