मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् १३

संहिता

उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गं परि॑ष्कृतम् ।
इन्दुं॑ दे॒वा अ॑यासिषुः ॥

पदपाठः

उपो॒ इति॑ । सु । जा॒तम् । अ॒प्ऽतुर॑म् । गोभिः॑ । भ॒ङ्गम् । परि॑ऽकृतम् ।
इन्दु॑म् । दे॒वाः । अ॒या॒सि॒षुः॒ ॥

सायणभाष्यम्

सुजातं सम्यक् प्रादुर्भूतं अप्तुरं वस्तीवरीभिः प्रेरितं भगं शत्रूणां भंजकं गोभिर्गोविकारैः पयोभिः परिष्कृतमलंकृतं संस्कृतमिंदुं सोमं देवाइन्द्रादयः उपायासिषुरुपागच्छन्ति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०