अर्षा॑ णः सोम॒ शं गवे॑ धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ।
वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥
अर्ष॑ । नः॒ । सो॒म॒ । शम् । गवे॑ । धु॒क्षस्व॑ । पि॒प्युषी॑म् । इष॑म् ।
वर्ध॑ । स॒मु॒द्रम् । उ॒क्थ्य॑म् ॥
हे सोम त्वं नोस्माकं गवे शं सुखमर्ष क्षर । अपिच पिप्युषीं प्रवृद्धामिषमन्नं धुक्षस्व पूरय । किंचोक्थ्यं प्रशंस्यं समुद्रमुदकं वर्ध वर्धय ॥ १५ ॥