मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् २५

संहिता

अ॒प॒घ्नन्प॑वते॒ मृधोऽप॒ सोमो॒ अरा॑व्णः ।
गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥

पदपाठः

अ॒प॒ऽघ्नन् । प॒व॒ते॒ । मृधः॑ । अप॑ । सोमः॑ । अरा॑व्णः ।
गच्छ॑न् । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥

सायणभाष्यम्

सोमोमृधोहिंसकान् शत्रूनपघ्नन् मारयन् अराव्णः शक्तौ सत्यां धनानामदातॄँश्चापघ्नन् इन्द्रस्य निष्कृतं स्थानं गच्छन् प्राप्नुवन् पवते धारया क्षरति ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२