मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् २९

संहिता

अस्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे ।
सा॒स॒ह्याम॑ पृतन्य॒तः ॥

पदपाठः

अस्य॑ । ते॒ । स॒ख्ये । व॒यम् । तव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्ने । उ॒त्ऽत॒मे ।
स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः ॥

सायणभाष्यम्

हे इन्दो सोम अस्यास्मिन् यागे वर्तमानस्य ते तव सख्ये सखित्वे सति वयममहीयव आं- गिरसास्तव त्वदीये उत्तमे श्रेष्ठे द्युम्नेन्ने तृप्तिं प्राप्ताः । तथाचयास्कः—द्युम्नंद्योतयेर्यशोवान्नंवे- ति । पृतन्यतोयुद्धमिच्छतः शत्रून्ससह्यामाभिभवेम ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३