मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् २

संहिता

वि॒घ्नन्तो॑ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ ।
तना॑ कृ॒ण्वन्तो॒ अर्व॑ते ॥

पदपाठः

वि॒ऽघ्नन्तः॑ । दुः॒ऽइ॒ता । पु॒रु । सु॒ऽगा । तो॒काय॑ । वा॒जिनः॑ ।
तना॑ । कृ॒ण्वन्तः॑ । अर्व॑ते ॥

सायणभाष्यम्

वाजिनो बलवन्तः सोमाः पुरु बहूनि दुरिता दुरितानि विघ्नन्तो विशेषेण नाशयन्तः तो- कायास्माकं पुत्रायार्वतेश्वाय च सुगा सुखानि तना धनानि च कृण्वन्तः कुर्वन्तः तिरः पवित्रं सज्यन्त इति संबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४