मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् १०

संहिता

अ॒यं विच॑र्षणिर्हि॒तः पव॑मान॒ः स चे॑तति ।
हि॒न्वा॒न आप्यं॑ बृ॒हत् ॥

पदपाठः

अ॒यम् । विऽच॑र्षणिः । हि॒तः । पव॑मानः । सः । चे॒त॒ति॒ ।
हि॒न्वा॒नः । आप्य॑म् । बृ॒हत् ॥

सायणभाष्यम्

विचर्षणिर्विद्रष्टा हितः पात्रेषु निहितः पवमानः अयं सोम आप्यमप्सुभवं बृहन्महदन्नं हिन्वानः प्रेरयन् सचेतति सर्वैः सज्ञायते ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५