मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् २३

संहिता

अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्षसि ।
स॒नद्वा॑ज॒ः परि॑ स्रव ॥

पदपाठः

अ॒भि । गव्या॑नि । वी॒तये॑ । नृ॒म्णा । पु॒ना॒नः । अ॒र्ष॒सि॒ ।
स॒नत्ऽवा॑जः । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

हे सोम पुनानः पूयमानोयस्त्वं वीतये भक्षणाय गव्यानि गोसंबन्धीनि नृम्णा नृम्णानि धनानि क्षीरादीन्यभ्यर्षस्यभिगच्छसि । सत्वं सनद्वाजोदीयमानान्नः सन् परिस्रव परिक्षर ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८