मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् ३

संहिता

सु॒त इन्द्रा॑य॒ विष्ण॑वे॒ सोमः॑ क॒लशे॑ अक्षरत् ।
मधु॑माँ अस्तु वा॒यवे॑ ॥

पदपाठः

सु॒तः । इन्द्रा॑य । विष्ण॑वे । सोमः॑ । क॒लशे॑ । अ॒क्ष॒र॒त् ।
मधु॑ऽमान् । अ॒स्तु॒ । वा॒यवे॑ ॥

सायणभाष्यम्

इन्द्रायेन्द्रार्थं विष्णवे विष्णवर्थंच वायवे वाय्वर्थंच सुतोभिषुतोयः सोमः कलशे द्रोणकलशे अक्षरत् क्षरति सोयं सोमो मधुमान् मधुररसवानस्तु भवतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०