मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् ७

संहिता

अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो॑चयः ।
हि॒न्वा॒नो मानु॑षीर॒पः ॥

पदपाठः

अ॒या । प॒व॒स्व॒ । धार॑या । यया॑ । सूर्य॑म् । अरो॑चयः ।
हि॒न्वा॒नः । मानु॑षीः । अ॒पः ॥

सायणभाष्यम्

हे सोम मानुषीर्मनुष्याणां हितान्यप उदकानि हिन्वानः प्रेरयन् त्वं यया धारया सूर्यमरोचयः प्रकाशयस्तया अया अनया धारया पवस्व क्षर ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१